ऊष्मकः

सुधाव्याख्या

ऊषति रुजति । ‘ऊष रुजायाम्' (भ्वा० प० से०) । ‘अन्येभ्यः-' (३.२.७५) इति मनिन् । ‘ऊष्माणस्तु निदाघोष्णग्रीष्म शषसहा अपि' । यावादित्वात् (५.४.२९) कन् । मकि (बाहुलकात्) अदन्तोऽपि । 'ऊष्मो घर्मेऽश्रुणि तथा ज्येष्ठे, ऊष्मा स्त्रियां त्विषि’ इति बोपालितः ।