अमरकोशः


श्लोकः

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा । गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दरी दरी स्त्रीलिङ्गः दृणाति । अच् कृत् ईकारान्तः
2 कन्दर कन्दरः पुंलिङ्गः, स्त्रीलिङ्गः कं जलम् । तेन दीर्यते । तत्पुरुषः समासः अकारान्तः
3 बिल बिलः पुंलिङ्गः अकारान्तः
4 गुहा गुहा स्त्रीलिङ्गः गूहति । कृत् आकारान्तः
5 गह्वर गह्वरम् पुंलिङ्गः, नपुंसकलिङ्गः गाह्यते । ष्वरच् उणादिः अकारान्तः
6 गण्डशैल गण्डशैलाः पुंलिङ्गः गण्ड इव शैलाः । अकारान्तः