दरी

सुधाव्याख्या

दरीति । दृणाति । 'दॄ विदारणे' (क्र्या० प० से०) । पचादौ (३.१.१३४) ‘दरट्' इति पाठात् टिड्ढा- (४.१.१५) इति ङीप् । 'दरोऽस्त्री साध्वसे गर्ते कंदरे तु दरी स्मृता । दराऽव्ययं मनागर्थे ।