गुहा

सुधाव्याख्या

गूहति । ‘गुहू संवरणे’ (भ्वा० प० से०) । 'इगुपध-' (३.१.१३५) इति कः । यत्तु-गुह्यतेऽनया । भिदाद्यङ् (३.३.१०४) इति मुकुटः । तन्न । अजब्भ्याम्’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । `गुहः षाण्मातुरे गुहा । सिंहपुच्छ्यां च गर्ते च पर्वतादेश्च गह्वरे’ ॥