गह्वरम्

सुधाव्याख्या

गाह्यते । ‘गाहू विलोडने’ (भ्वा० आ० से०) । ‘छित्वरछत्वर-' (उ० ३.१) इति ष्वरजन्तं निपात्यते । (‘अथ गह्वरम् । गुहागहनदम्भेषु निकुञ्जे तु पुमानयम्') ॥ केचित्तु ‘देवखाते बिलं गुहा’ इति काल्यात् 'गङ्गरं बिलदम्भयोः इति शाश्वताच्च (बिलं रन्ध्रे गुहायां च' इति हैमतश्च) चत्वारि नामानि–इत्याहुः ।


प्रक्रिया

धातुः - गाहूँ विलोडने


गाह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गह् + ष्वरच् – छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः (३.१) । उणादिसूत्रम् ।
गह् + वर - षः प्रत्ययस्य 1.3.6, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गह्वर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गह्वर + अम् - अतोऽम् 7.1.24
गह्वरम् - अमि पूर्वः 6.1.107