अमरकोशः


श्लोकः

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्रियाम् । प्राकारो वरण: साल: प्राचीनं प्रान्ततो वृति: ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रथ्या रथ्या स्त्रीलिङ्गः रथं वहति । यत् तद्धितः आकारान्तः
2 प्रतोली प्रतोली स्त्रीलिङ्गः प्रतोलयति अच् कृत् ईकारान्तः
3 विशिखा विशिखा स्त्रीलिङ्गः उणादिः आकारान्तः
4 चय चयः पुंलिङ्गः चीयते । अच् कृत् अकारान्तः
5 वप्र वप्रम् पुंलिङ्गः, नपुंसकलिङ्गः उप्यतेऽत्र । रन् उणादिः अकारान्तः
6 प्राकार प्राकारः पुंलिङ्गः प्र क्रियते । घञ् कृत् अकारान्तः
7 वरण वरणः पुंलिङ्गः वृणोति । ल्युट् कृत् अकारान्तः
8 साल सालः पुंलिङ्गः सल्यते । घञ् कृत् अकारान्तः
9 प्राचीन प्राचीनम् नपुंसकलिङ्गः अकारान्तः