सालः

सुधाव्याख्या

सल्यते । ‘षल गतौ’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘सालो वरणसर्जयोः इति रभसः ॥ ‘तालव्यो नृपझषयोः शालो, वृक्षे वृत्तौ द्रुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम्' इत्यूष्मविवेकः । तत्र ‘शल गतौ (भ्वा० प० से०) धातुर्बोध्यः ।