प्रतोली

सुधाव्याख्या

प्रतोलयति 'तुल उन्माने’ चुरादिः । पचाद्यच् (३.१.१३४) । गौरादिङीष् (४.१.४१) । यतु— ‘एरच्' (३.३.५६) इति मुकुटेनोक्तम् । तन्न । ‘प्रतोलयति' इति विग्रहप्रदर्शनात् । अकर्तरि कारके भावे च एरचो विधानात् ।