वप्रम्

सुधाव्याख्या

उप्यतेऽत्र । ‘डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ०) । ‘वपिवृधिभ्यां रन्’ (उ० २.२७) । ‘वप्रश्चावरणे वृन्दे प्राकारे मूलबन्धने’ इति धरणिः । वप्रस्ताते पुमान्, अस्त्री रेणौ क्षेत्रे चये तटे' इति मेदिनी ॥