अमरकोशः


श्लोकः

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी । सम्मार्जनी शोधनी स्यात्सङ्करोऽवकरस्तया ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आरोहण आरोहणम् नपुंसकलिङ्गः आरुह्यतेऽनेन । ल्युट् कृत् अकारान्तः
2 सोपान सोपानम् नपुंसकलिङ्गः अकारान्तः
3 निश्रेणी निश्रेणिः स्त्रीलिङ्गः नियता श्रेणि: पंक्तिरत्र ॥ ईकारान्तः
4 अधिरोहिणी अधिरोहिणी स्त्रीलिङ्गः अधिरुह्यतेऽनया । ल्युट् कृत् ईकारान्तः
5 संमार्जनी संमार्जनी स्त्रीलिङ्गः संमृज्यतेऽनया । ल्युट् कृत् ईकारान्तः
6 शोधनी शोधनी स्त्रीलिङ्गः शोध्यतेऽनया । ल्युट् कृत् ईकारान्तः
7 संकर संकरः पुंलिङ्गः संकीर्यते । अप् कृत् अकारान्तः
8 अवकर अवकरः पुंलिङ्गः अवकीर्यते । अप् कृत् अकारान्तः