शोधनी

सुधाव्याख्या

शोध्यतेऽनया । 'शुध शौचे (दि० प० अ०) । ण्यन्ताल्ल्युट् (३.३.११७) ॥ एषु कर्तरि ल्युट् (३.३.११३) वा । ‘वर्धनी’ अप्यत्रा । (संमार्जनी बहुकरी वर्धनी च समूहनी' इति हैमात्) ।


प्रक्रिया

धातुः - शुधँ शौचे


शुध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुध् + णिच् - हेतुमति च 3.1.26
शुध् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शोधि - पुगन्तलघूपधस्य च 7.3.86
शोध् + इ + ल्युट् - करणाधिकरणयोश्च 3.3.117
शोध् + ल्युट् - णेरनिटि 6.4.51
शोध् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शोध् + अन - युवोरनाकौ 7.1.1
शोधन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
शोधन + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शोधन् + ई - यस्येति च 6.4.148
शोधनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शोधनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शोधनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68