सङ्करः

सुधाव्याख्या

समिति । संकीर्यते । ‘कॄ विक्षेपे' (तु० प० से०) । हिंसायाम् (क्र्या० उ० से०) वा । 'ॠदोरप्' (३.३.५७) । 'संकारः’ इति पाठे तु कर्मणि घञ् (३.३.१४) । ('अथ संस्कारोऽवकारेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायाम्’ इति हैमः । मेदिनीकोशे तु ह्रस्वमध्य:) ॥