अधिरोहिणी

सुधाव्याख्या

अधिरुह्यतेऽनया । ल्युट् (३.३.११७) ॥


प्रक्रिया

धातुः - रुहँ बीजजन्मनि प्रादुर्भावे च


रुह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अधि + रुह् + ल्युट् - करणाधिकरणयोश्च 3.3.117
अधि + रुह् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अधि + रुह् + अन - युवोरनाकौ 7.1.1
अधि + रोह् + अन - पुगन्तलघूपधस्य च 7.3.86
अधिरोहण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
अधिरोहण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
अधिरोहण + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अधिरोहण् + ई - यस्येति च 6.4.148
अधिरोहणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अधिरोहणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अधिरोहणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68