सम्मार्जनी

सुधाव्याख्या

संमेति । संमृज्यतेऽनया । ल्युट् (३.३.११७) । 'मृजेद्धृद्धिः' (७.२.११४) ॥


प्रक्रिया

धातुः - मृजूँ शुद्धौ


मृज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + मृज् + ल्युट् - करणाधिकरणयोश्च 3.3.117
सम् + मृज् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सम् + मृज् + अन - युवोरनाकौ 7.1.1
सम् + मार्ज् + अन - मृजेर्वृद्धिः 7.2.114
सम्मार्जन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
सम्मार्जन + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सम्मार्जन् + ई - यस्येति च 6.4.148
सम्मार्जनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सम्मार्जनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम्मार्जनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68