अमरकोशः


श्लोकः

निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः । भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निषाद निषादः पुंलिङ्गः निषीदति पापमस्मिन् । घञ् कृत् अकारान्तः
2 श्वपच श्वपचः पुंलिङ्गः श्वानं पचति । अच् कृत् अकारान्तः
3 अन्तेवासिन् अन्तेवासिन् पुंलिङ्गः ग्रामादेरन्ते वसति । णिनि कृत् नकारान्तः
4 चाण्डाल चाण्डालः पुंलिङ्गः चण्डते । अञ् तद्धितः अकारान्तः
5 पुक्कस पुक्कसः पुंलिङ्गः पुत् कुत्सितं पुण्यं वा कृत् अकारान्तः
6 किरात किरातः पुंलिङ्गः किरश्चासावतश्च । तत्पुरुषः समासः अकारान्तः
7 शबर शबरः पुंलिङ्गः शवति । अर बाहुलकात् अकारान्तः
8 पुलिन्द पुलिन्दः पुंलिङ्गः पोलति । किन्दच् उणादिः अकारान्तः