पुलिन्दः

सुधाव्याख्या

- पोलति । ‘पुल महत्त्वे' (भ्वा० प० से०) । ‘कुणिपुलिभ्यां किन्दच्’ (उ० ४.८५) इति मुकुटः । ‘पुलिन्दः कथ्यते म्लेच्छे पुलिन्द्रेऽपि निगद्यते' इति तारपालः । ‘पुलिन्दः पञ्चशवरः' इति रत्नकोषः ॥ म्लेच्छति । ‘म्लेच्छ अव्यक्ते शब्दे' (भ्वा० प० से०) । अच् (३.१.१३४) म्लेच्छानां जातयोऽवान्तरभेदाः । ‘गोमांसभक्षको यस्तु लोकबाह्यं च भाषते । सर्वाचारविहीनोऽसौ म्लेच्छ इत्यभिधीयते' सूत- संहितायामपि । ‘ब्राह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः । अस्यामनेन चौर्येण म्लेच्छो विप्रात्प्रजायते' इति ॥