शवरः

सुधाव्याख्या

- शवति । ‘शव गतौ' (भ्वा० प० से०) । बाहुलकादरः । शवं राति वा । कः (३.२.३) । ‘शवरो म्लेच्छभेदे च पानीये शंकरेऽपि च' इति विश्वः (मेदिनी) ॥