अमरकोशः


श्लोकः

स्कन्धप्रदेशस्तु वहः सास्ना तु गलकम्बलः । स्यान्नस्तितस्तु नस्योत: प्रष्ठवाड् युगपार्श्वगः ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वह वहः पुंलिङ्गः वहति युगमनेन । कृत् अकारान्तः
2 सास्ना सास्ना पुंलिङ्गः सस्ति । उणादिः आकारान्तः
3 गलकम्बल गलकम्बलः पुंलिङ्गः गलस्य । कम्बलः । तत्पुरुषः समासः अकारान्तः
4 नस्तित नस्तितः पुंलिङ्गः नसनम् । क्त कृत् अकारान्तः
5 नस्योत नस्योतः पुंलिङ्गः नासिकायां भवा । यत् तद्धितः अकारान्तः
6 प्रष्ठवाह् प्रष्ठवाह् पुंलिङ्गः प्रष्ठमग्रगामिनं वहति । ण्वि कृत् हकारान्तः
7 युगपार्श्वग युगपार्श्वगः पुंलिङ्गः युगस्य स्कन्धकाष्ठस्य पार्श्वं गच्छति । कृत् अकारान्तः