नस्योतः

सुधाव्याख्या

नासिकायां भवा । ‘शरीरावयवाच्च' (४.३.५५) इति यत् । ‘नस्नासिकायाः यत्तस्क्षुद्रेषु' (वा० ६.१.६३) इति नसादेशः । नस्यया नासारज्ज्वा उतः । ‘नस्तोतः’ इति पाठः-इति कश्चित् । नस्यते कर्मणि क्तः (३.२.१०२) । नस्तयोतः ॥