युगपार्श्वगः

सुधाव्याख्या

युगस्य स्कन्धकाष्ठस्य पार्श्वं गच्छति । ‘अन्येष्वपि-' (वा० ३.२.४८) इति डः ॥


प्रक्रिया

धातुः -


गम्लृँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युगपार्श्व + गम् + ड – वा ३.२.४८
युगपार्श्व + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
युगपार्श्व + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
युगपार्श्वग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
युगपार्श्वग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युगपार्श्वग + रु - ससजुषो रुः 8.2.66
युगपार्श्वग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युगपार्श्वगः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D