अमरकोशः


श्लोकः

कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुस्तुम्बुरु कुस्तुम्बुरुम् नपुंसकलिङ्गः कुत्सितं तुम्बति । तत्पुरुषः समासः उकारान्तः
2 धान्याक धान्याकम् नपुंसकलिङ्गः आका उणादिः अकारान्तः
3 शुण्ठी शुण्ठी स्त्रीलिङ्गः शुण्ठति कफम् । अच् कृत् ईकारान्तः
4 महौषध महौषधम् नपुंसकलिङ्गः महच्च तदौषधं च । तत्पुरुषः समासः अकारान्तः
5 विश्व विश्वः स्त्रीलिङ्गः, नपुंसकलिङ्गः विशति । क्वन् उणादिः अकारान्तः
6 नागर नागरम् नपुंसकलिङ्गः नगरे भवम् । अण् तद्धितः अकारान्तः
7 विश्वभेषज विश्वभेषजम् नपुंसकलिङ्गः विश्वस्य दोषस्य भेषजम् ॥ तत्पुरुषः समासः अकारान्तः