कुस्तुम्बरुः

सुधाव्याख्या

कुत्सितं तुम्बति । ‘तुबि अर्दने’ (भ्वा० प० से०) । बाहुलकात् ‘कुस्तुम्बरूणि जातिः’ (६.१.१४३) इति साधु । स्वामी तु धान्यमकति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । अण् (३.२.१) (इत्याह) । ह्रस्वादिः इति मुकुटः । ‘धान्यकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम्’ इति रभसः ॥


प्रक्रिया

धातुः -


तुबिँ अर्दने
तुब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तु + नुम् + ब् - इदितो नुम् धातोः 7.1.58
तु + न् + ब् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुंब् - नश्चापदान्तस्य झलि 8.3.24
तुम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
कु + सुट् + तुम्ब् + उरु - कुगतिप्रादयः 2.2.18। बाहुलकात् ।
कु + स् + तुम्ब् + उरु - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुस्तुम्बुरु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुस्तुम्बुरु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुस्तुम्बुरु + रु - ससजुषो रुः 8.2.66
कुस्तुम्बुरु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुस्तुम्बुरुः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D