शुण्ठी

सुधाव्याख्या

अथेति । शुण्ठति कफम् । ‘शुठि प्रतिघाते’ (भ्वा० पओ से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । इनि (उ० ८४.११८) तु ह्रस्वान्तोऽपि । ‘सघन्याशुण्ठिसैन्धवम्’ इति वैद्यकम् । इत्थं च गौरादित्वं न कल्प्यम् । ‘कृदिकारात्’ (ग० ४.१.४५) इति सिद्धेः ॥


प्रक्रिया

धातुः -


कुठिँ प्रतिघाते
शुठ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शु + नुम् + ठ् - इदितो नुम् धातोः 7.1.58
शु + न् + ठ् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुंठ् - नश्चापदान्तस्य झलि 8.3.24
शुण्ठ् - अनुस्वारस्य ययि परसवर्णः 8.4.58
शुण्ठ् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
शुण्ठ् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शुण्ठ + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
शुण्ठ + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शुण्ठ् + ई - यस्येति च 6.4.148
शुण्ठी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुण्ठी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुण्ठी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D