अमरकोशः


श्लोकः

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका । आर्द्रकं शृङ्गवेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुषवी सुषवी स्त्रीलिङ्गः सुषवणम् । अप् कृत् ईकारान्तः
2 कारवी कारवी स्त्रीलिङ्गः कारं वाति । कृत् ईकारान्तः
3 पृथ्वी पृथ्वी स्त्रीलिङ्गः प्रथते । कु उणादिः ईकारान्तः
4 पृथु पृथुः पुंलिङ्गः कालो वर्णोऽस्त्यस्याः । कु उणादिः उकारान्तः
5 काला काला स्त्रीलिङ्गः कालो वर्णोऽस्त्यस्याः । अच् कृत् आकारान्तः
6 उपकुञ्चिका उपकुञ्चिका स्त्रीलिङ्गः उपकुञ्चति । ण्वुल् कृत् आकारान्तः
7 आर्द्रक आर्द्रकम् नपुंसकलिङ्गः आर्द्रायां जातम् । वुन् तद्धितः अकारान्तः
8 शृङ्गवेर शृङ्गवेरम् नपुंसकलिङ्गः शृङ्गमिव वेरं शरीरमस्य ॥ बहुव्रीहिः समासः अकारान्तः
9 छत्त्रा छत्त्रा स्त्रीलिङ्गः छत्त्रमस्त्यस्याः । अच् तद्धितः आकारान्तः
10 वितुन्नक वितुन्नकम् नपुंसकलिङ्गः विगतं तुन्नं दुःखमस्मात् । तत्पुरुषः समासः अकारान्तः