छत्त्रा

सुधाव्याख्या

अथेति । छत्त्रमस्त्यस्याः । अर्श आद्यच् (५.२.१२७) । टाप् (४.१.४) । छत्रं स्यादातपत्राणे छत्रा मधुरीकौषधौ । धान्याके च शिलीन्ध्रे च’ इति हेमचन्द्रः ॥