पृथ्वी

सुधाव्याख्या

प्रथते । ‘प्रथ प्रख्याने' (चु० प० से०) । ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणम्-' (उ० १.२८) इति कुः । 'वोतो गुणवचनात्' (४.१.४४) इति ङीष् । ‘पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' इति विश्वः ॥