कारवी

सुधाव्याख्या

कारं वाति । ‘वा गतिगन्धनयोः’ (अ० प० अ०) । आतोऽनुप-' (३.२.३) इति कः । गौरादिः (४.१.४१) । यद्वा कारणम् । ‘कॄञ् हिंसायाम्' (क्र्या० उ० से०) । ण्यन्तः । सम्पदादि क्विप् (वा० ३.३.१०८) । कारमवति । 'अव रक्षणादौ’ (भ्वा० प० से०) । अण् (३.२.१) । ङीप् (४.१.१५) । संज्ञापूर्वकत्वान्न वृद्धिः । यत्तुकारोरियम्-इति मुकुटः तन्न । वृद्धत्वाच्छस्य (४.३.११४) प्रसङ्गात् । यदपि कस्य वायोरारवोऽस्याम्-इति । तदपि न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । ‘कारवी मथुरादीप्यत्वक्पत्रीकृष्णजीरके' (इति मेदिनी) ॥