अमरकोशः


श्लोकः

कडम्बश्च कलम्बश्च वेसवार उपस्कर । तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कडम्ब कडम्बः पुंलिङ्गः कडति अम्बच् बाहुलकात् अकारान्तः
2 कलम्ब कलम्बः पुंलिङ्गः डलयोरैक्यम् । अम्बच् बाहुलकात् अकारान्तः
3 वेसवार वेसवारः पुंलिङ्गः वेसं प्रेरणं वारयति वृणोति वा । अण् कृत् अकारान्तः
4 उपस्कर उपस्करः पुंलिङ्गः उपस्करोति व्यञ्जनेन समवैति । अच् कृत् अकारान्तः
5 तिन्तिडीक तिन्तिडीकम् नपुंसकलिङ्गः कीकच् उणादिः अकारान्तः
6 चुक्र चुक्रम् नपुंसकलिङ्गः चकति(ते) । रक् उणादिः अकारान्तः
7 वृक्षाम्ल वृक्षाम्लम् नपुंसकलिङ्गः वृक्षस्याम्लम् ॥ तत्पुरुषः समासः अकारान्तः
8 वेल्लज वेल्लजम् नपुंसकलिङ्गः वेल्लनम् । कृत् अकारान्तः