कलम्बः

सुधाव्याख्या

डलयोरैक्यम् । केन लम्बते वा । ‘लबि अवस्रंसने' (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘कलम्बी शाकभेदे, स्यात्कदम्बशरयोः पुमान्’ (इति मेदिनी) । (‘कलम्बः सायके नीपे नालीशाके कलम्ब्यपि' इति विश्वः) ॥