उपस्करः

सुधाव्याख्या

उपस्करोति व्यञ्जनेन समवैति । कृञः (तु० उ० अ०) । अच् (३.१.१३४) । ‘समवाये च' (६.१.१३८) (इति सुट्) ॥ -हिङ्गुजीरकहरिद्राधान्याकशुण्ठीसर्षपादेः-मुकुटः । ‘चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् । धान्याकं रजनीश्वेततण्डुलाश्च समांशकाः । वेसवार इति ख्यातः शाकादिषु नियोजयेत्' इत्यात्रेयसंहिता । विंशतिः पलानि हरिद्रायाः, दश पलानि धान्याकस्य, पञ्च पलानि शुद्धजीरकस्य, पलसार्धद्वयं मेथिकायाः, । एतच्चतुष्टयं भर्जितमेव ग्राह्यम् । त्रीणि पलानि मरीचस्य, अर्धपलं रामठस्य, । एतत्सर्वमेकत्र संयोज्य सम्मर्दितं ‘वेसवार’ इत्युच्यते-इत्यन्ये ॥