वेल्लजः

सुधाव्याख्या

अथेति । वेल्लनम् । 'वेल्ल चलने' (भ्वा० प० से०) । घञ् (३.३.१८) । वेल्लं जायते । ‘जनी' (दि० आ० से०) । अन्तर्भावितण्यर्थः । ‘अन्येष्वपि-' (३.२.१०१) इति डः ॥


प्रक्रिया

धातुः -


वेल्लँ चलने
वेल्ल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेल्ल् + घञ् - भावे 3.3.18
वेल्ल् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जनीँ प्रादुर्भावे
जन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेल्ल + अम् + जन् + ड - अन्येष्वपि दृश्यते 3.2.101
वेल्ल + जन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
वेल्ल + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
वेल्ल + ज् + अ - टेः 6.4.143
वेल्लज + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वेल्लज + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेल्लज + रु - ससजुषो रुः 8.2.66
वेल्लज + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेल्लजः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D