अमरकोशः


श्लोकः

दर्वि: कम्बि: खजाका च स्यात्तर्दूर्दारुहस्तक: । अस्त्री शाकं हरितकं शिग्रु अस्य तु नालिका ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दर्वि दर्विः स्त्रीलिङ्गः दृणाति । विन् उणादिः इकारान्तः
2 कम्बि कम्बिः स्त्रीलिङ्गः कम्यते । बिन् बाहुलकात् इकारान्तः
3 खजाक खजाकः स्त्रीलिङ्गः खजति । आक उणादिः अकारान्तः
4 तर्दू तर्दू स्त्रीलिङ्गः तरति । उणादिः ऊकारान्तः
5 दारुहस्तक दारुहस्तकः पुंलिङ्गः दारुणो हस्तकः ॥ तत्पुरुषः समासः अकारान्तः
6 शाक शाकः पुंलिङ्गः, नपुंसकलिङ्गः श्यति । कन् बाहुलकात् अकारान्तः
7 हरितक हरितकम् नपुंसकलिङ्गः हरितो वर्णोऽस्यास्ति । अच् तद्धितः अकारान्तः
8 शिग्रु शिग्रुः पुंलिङ्गः शीक्यते शीकते । रुक् बाहुलकात् उकारान्तः
9 नालिका नालिका स्त्रीलिङ्गः आकारान्तः