शिग्रुः

सुधाव्याख्या

शीक्यते शीकते । ‘शीकृ सेचने (भ्वा० आ० से०) बाहुलकाद् रुग्ह्रस्वौ गश्च । शिनोति । ‘शिञ् निशाने' (स्वा० उ० अ०) । ‘जत्र्वादयश्च' (उ० ४.१०२) इति साधुः, इति वा । ‘शिग्रुर्ना शाकमात्रे च शोभाञ्जनमहीरुहे' इति विश्वमेदिन्यौ ॥