हरितकम्

सुधाव्याख्या

हरितो वर्णोऽस्यास्ति । अर्शआद्यच् (५.२.१२७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । हरति, ह्रियते वा । ‘हृञ् हरणे' (भ्वा० उ० अ०) । ‘हृश्याभ्यामितन्’ (उ० ३.९३) । कन् (ज्ञा० ५.४.५) ॥