शाकम्

सुधाव्याख्या

अस्त्रीति । श्यति । धातुक्षयकारित्वात् । ‘शो तनूकरणे' (दि० प० अ०) । बाहुलकात्कन् । शक्नोत्यनेन भोक्तुम् । ‘शक्लृ शक्तौ' (स्वा० प० अ०) । ‘हलश्च' (३.३.१२१) इति घञ् । ‘शाको द्वीपान्तरेऽपि च । शक्तौ द्रुमविशेषे च पुमान्, हरितकेऽस्त्रियाम्' इति विश्वः (मेदिनी) ॥