अमरकोशः


श्लोकः

समानौ रसवत्यां तु पाकस्थानमहानसे । पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रसवती रसवती स्त्रीलिङ्गः रसाः सन्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
2 पाकस्थान पाकस्थानम् नपुंसकलिङ्गः पाकस्य स्थानम् ॥ तत्पुरुषः समासः अकारान्तः
3 महानस महानसम् नपुंसकलिङ्गः महच्च तदनश्च टच् तद्धितः अकारान्तः
4 पौरोगव पौरोगवः पुंलिङ्गः पुरः पूजिता गौर्भूमिः । टच् तद्धितः अकारान्तः
5 सूपकार सूपकारः पुंलिङ्गः शोभना आपोऽस्मिन् । अण् कृत् अकारान्तः
6 बल्लव बल्लवः पुंलिङ्गः वल्लनम् । कृत् अकारान्तः