महानसः

सुधाव्याख्या

महच्च तदनश्च (अनसोपकरणं लक्ष्यते) । ‘अनोश्मायः-’ (५.४.९४) इत्यादिना टच् । महदनोऽस्य-इति स्वामी । तन्न । ‘अनोश्मायः-’ इति तत्पुरुषसमासान्तोपन्यासविरोधात् ॥