पौरोगवः

सुधाव्याख्या

पाविति । पुरः पूजिता गौर्भूमिः । पुरोगवी । ‘गोरतद्धित’ (५.४.९२) इति टच् । तस्या अयम् ‘तस्येदम्’ (४.३.१२१) इत्यण् । यद्वा पुरः प्रथमं याच्यवस्तुषु गौर्नेत्रमस्य । पुरोगः । ‘गोस्त्रियोः -’ (१.२.४८) । ततः प्रज्ञाद्यण् (५.४.३८) ॥