सूपकारः

सुधाव्याख्या

स्विति । शोभना आपोऽस्मिन् । ‘ऋक्पूर्-’ (५.४.७४) इत्यः । ‘कुसुयुभ्यश्च’ इत्यपोऽत ऊत् । सवति रसान् । ‘षु प्र सवादौ' (भ्वा० प० से०) । ‘सुशृभ्यां निच्च’ (उ० ३.२६) इति पो दीर्घश्च ।-‘युकुसूनां किच्च’–इत्यपाणिनीयम् । सूपं करोति । ‘कर्मण्यण्’ (३.२.१) ॥


प्रक्रिया

धातुः -


सु + अप्
सु + अप् + अ - ऋक्पूरप्धूःपथामानक्षे 5.4.74
सु + ऊत् + प् + अ - ‘कुसुयुभ्यश्च’
सु + ऊ + प् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सूप - अकः सवर्णे दीर्घः 6.1.101
डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
सूप + अम् + कृ + अण् - कर्मण्यण् 3.2.1
सूप + कृ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
सूप + कृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सूप + कार् + अ - अचो ञ्णिति 7.2.115
सूपकार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सूपकार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सूपकार + रु - ससजुषो रुः 8.2.66
सूपकार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सूपकारः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D