वल्लवः

सुधाव्याख्या

वल्लनम् । ‘वल्ल संवरणे’ (भ्वा० आ० से०) । ‘वल्लिः सौत्रो वा प्रीतौ । भावे घञ् (३.३.१८) । वल्लोऽस्यास्ति । ‘अन्येभ्योऽपि-’ (वा० ५.२.१०९) इति वः । वल्लं वाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘बल्लवः सूपकारे स्याद्भीमसेने च गोदुहि’ इति विश्वः ॥