अमरकोशः


श्लोकः

तृणधान्यानि नीवारा: स्त्री गवेधुर्गवेधुका । अयोग्रो मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तृणधान्य तृणधान्यम् नपुंसकलिङ्गः तृणानीव धान्यानि । तत्पुरुषः समासः अकारान्तः
2 नीवार नीवारः पुंलिङ्गः नि व्रियन्ते । घञ् कृत् अकारान्तः
3 गवेधु गवेधुः स्त्रीलिङ्गः गवा जलेन तत्र वा एधते । कु उणादिः उकारान्तः
4 गवेधुका गवेधुका स्त्रीलिङ्गः गवे गवार्थं दीयते रक्ष्यतेऽसौ । कन् तद्धितः आकारान्तः
5 अयोग्र अयोग्रः पुंलिङ्गः, नपुंसकलिङ्गः अयोऽग्रेऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 मुसल मुसलः पुंलिङ्गः, नपुंसकलिङ्गः मुस्यति अनेन वा । कलच् उणादिः अकारान्तः
7 उदूखल उदूखलम् नपुंसकलिङ्गः ऊर्ध्वं च तत् खं च । तत्पुरुषः समासः अकारान्तः
8 उलूखल उलूखलम् नपुंसकलिङ्गः ऊर्ध्वखं लाति । तत्पुरुषः समासः अकारान्तः