मुसलः

सुधाव्याख्या

मुस्यति अनेन वा । ‘मुस खण्डने’ (दि० प० से०) । ‘वृषादिभ्यश्च’ (उ० १.१०६) इति कलच् । ‘मुसलं स्यादयोग्रे च पुंनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि’ इति विश्वमेदिन्यौ ॥