गवेधुका

सुधाव्याख्या

स्वार्थे कन् (ज्ञापि० ५.४.५) ।-गवे गवार्थं दीयते रक्ष्यतेऽसौ । ‘देङ् रक्षणे’ (भ्वा० आ० अ०) । मृगय्वादित्वात् (उ० १.३७) कुः । नैरुक्तो दकारस्य डः । ‘तत्पुरुषे कृति-’ (६.३.१३) इत्यलुक् । ‘गवेडुः’–इत्याह मुकुटः ॥