अमरकोशः


श्लोकः

तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके । कर्परी दार्विकाक्वाथोद्भवं तुत्थं रसाञ्जनम् ॥ १०१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तुत्थाञ्जन तुत्थाञ्जनम् नपुंसकलिङ्गः तुत्थयति, तुत्थ्यते, वा । तत्पुरुषः समासः अकारान्तः
2 शिखिग्रीव शिखिग्रीवम् नपुंसकलिङ्गः शिखिग्रीवास्यास्ति । तत्पुरुषः समासः अकारान्तः
3 वितुन्नक वितुन्नकम् नपुंसकलिङ्गः वितुद्यते स्म । क्त कृत् अकारान्तः
4 मयूरक मयूरकम् नपुंसकलिङ्गः मयूरस्य प्रतिकृतिः । क्त कृत् अकारान्तः
5 कर्परी कर्परी स्त्रीलिङ्गः कल्पते । अरद् बाहुलकात् ईकारान्तः
6 दार्विका दार्विका स्त्रीलिङ्गः दार्वी दारुहरिद्रा । कन् तद्धितः आकारान्तः
7 रसाञ्जन रसाञ्जनम् नपुंसकलिङ्गः रसजमञ्जनम् । तत्पुरुषः समासः अकारान्तः