तुत्थाञ्जनम्

सुधाव्याख्या

त्विति । तुत्थयति, तुत्थ्यते, वा । ‘तुत्थ आवरणे’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । ‘एरच्’ (३.३.५६) वा । तुत्थं च तदञ्जनं च ॥


प्रक्रिया

धातुः -


तुत्थँ आवरणे
तुत्थ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुत्थ् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
तुत्थ् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुत्थम्
तुत्थ + सु + अञ्जन + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
तुत्थ + अञ्जन - सुपो धातुप्रातिपदिकयोः 2.4.71
तुत्थाञ्जनम्
x000D