अमरकोशः


श्लोकः

चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले । पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चूर्ण चूर्णः पुंलिङ्गः, नपुंसकलिङ्गः चूर्ण्यते । अच् कृत् अकारान्तः
2 क्षोद क्षोदः पुंलिङ्गः क्षुद्यते । घञ् कृत् अकारान्तः
3 समुत्पिञ्ज समुत्पिञ्जः पुंलिङ्गः समुत्पिञ्ज(य)ति । अच् कृत् अकारान्तः
4 पिञ्जल पिञ्जलः पुंलिङ्गः पिञ्जं लाति वा ॥ अच् बाहुलकात् अकारान्तः
5 पताका पताका स्त्रीलिङ्गः पतति पत्यतेऽनया वा । आक उणादिः आकारान्तः
6 वैजयन्ती वैजयन्ती स्त्रीलिङ्गः विजयते । अण् तद्धितः ईकारान्तः
7 केतन केतनम् नपुंसकलिङ्गः केत्यते ज्ञायतेऽनेन । ल्युट् कृत् अकारान्तः
8 ध्वज ध्वजः पुंलिङ्गः, नपुंसकलिङ्गः ध्वजति । अच् कृत् अकारान्तः