समुत्पिञ्जः

सुधाव्याख्या

सेति । समुत्पिञ्ज(य)ति । ‘पिजि हिंसायाम्' (चु० प० से०) ण्यन्तः । ‘एरच्' (३.३.५६) ॥


प्रक्रिया

धातुः -


पिजिँ हिंसायाम्
पिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिन्ज् - इदितो नुम् धातोः 7.1.58
पिंज् - नश्चापदान्तस्य झलि 8.3.24
पिञ्ज् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पिञ्ज् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
समुत् + पिञ्ज् + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समुत् + पिञ्ज् + इ + अच् - एरच् 3.3.56
समुत् + पिञ्ज् + इ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
समुत् + पिञ्ज् + अ - णेरनिटि 6.4.51
समुत्पिञ्ज + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
समुत्पिञ्ज + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समुत्पिञ्ज + रु - ससजुषो रुः 8.2.66
समुत्पिञ्ज + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समुत्पिञ्जः - खरवसानयोर्विसर्जनीयः 8.3.15