वैजयन्ती

सुधाव्याख्या

विजयते । ‘जि अभिभवे' (भ्वा० प० अ०) ‘तॄभूवहि-’ (उ० ३.१२८) इति झच् । विजयन्तस्येयम्’ ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘वैजयन्तो गुहे शक्रप्रासादध्वजयोः पुमान् । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम्' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


जि अभिभवे (न्यूनीभवने न्यूनीकरणे च)
वि + जि + झच् – उणादि ३.१२८
वि + जि + झ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वि + जि + अन्त् + अ - झोऽन्तः 7.1.3
विजे + अन्त - सार्वधातुकार्धधातुकयोः 7.3.84
विजय् + अन्त - एचोऽयवायावः 6.1.78
विजयन्त + अण् - तस्येदम् 4.3.120
विजयन्त + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विजयन्त् + अ - यस्येति च 6.4.148
वैजयन्त - तद्धितेष्वचामादेः 7.2.117
वैजयन्त + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
वैजयन्त + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वैजयन्त् + ई - यस्येति च 6.4.148
वैजयन्ती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वैजयन्ती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वैजयन्ती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68