पताका

सुधाव्याख्या

पेति । पतति पत्यतेऽनया वा । ‘पत्लृ गतौ' (भ्वा० प० से०) । ‘बलाकादयश्च’ (उ० ४.१४) इत्याकः) । यत्तु ‘शलिपदिपतिभ्यो नित्) (उ० ४.१४) इत्याकः-इति मुकुटः । तन्न । अपाणिनीयत्वात् । ‘पताका वैजयन्त्यां स्यात्सौभाग्यनाटकाङ्गयोः' इति विश्वमेदिन्यौ ॥