केतनम्

सुधाव्याख्या

केत्यते ज्ञायतेऽनेन । ‘कित संशयादौ’ (भ्वा० प० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘केतनं तु निमन्त्रणे । गृहे केतौ च कृत्ये च' इति मेदिनी ॥